|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.181. अध्यायः 181
Mahabharata - Adi Parva - Chapter Topics
द्रोणहन्तृपुत्रोत्पादनेच्छया याजकान्वेषणार्थमतटो द्रुपदस्य उपयाजवचनेन याजसमीपगमनम्॥ 1 ॥ पुत्रार्थं यज्ञे आरब्धे अग्निकुण्डाद्धृष्टद्युम्नस्योत्पत्तिस्तच्चरितमाकाशवाणी च॥ 2 ॥ पाञ्चाल्या उत्पत्तिः॥ 3 ॥ तयोर्नामकरणम्॥ 4 ॥ द्रोणेन धृष्टद्युम्नस्यास्त्रशिक्षणम्॥ 5 ॥
Mahabharata - Adi Parva - Chapter Text
ब्राह्मण उवाच। 1-181-0x(1040)(8151)
अमर्षी द्रुपदो राजा कर्मसिद्धान्द्विजर्षभान्।
अन्विच्छन्परिचक्राम ब्राह्मणावसथान्बहून्॥ 1-181-1(8152)
पुत्रजन्म परीप्सन्वै शोकोपहतचेतनः।
`द्रोणेन वैरं द्रुपदो न सुष्वाप स्मरन्सदा।'
नास्ति श्रेष्ठमपत्यं म इति नित्यमचिन्तयत्॥ 1-181-2(8153)
जातान्पुत्रान्स निर्वेदाद्धिग्बन्धूनिति चाब्रवीत्।
निःश्वासपरमश्चासीद्द्रोणं प्रतिचिकीर्षया॥ 1-181-3(8154)
प्रभावं विनयं शिक्षां द्रोणस्य चरितानि च।
क्षात्रेण च बलेनास्य चिन्तयन्नाध्यगच्छत॥ 1-181-4(8155)
प्रतिकर्तुं नृपश्रेष्ठो यतमानोऽपि भारत।
अभितः सोऽथ कल्माषीं गङ्गाकूले परिभ्रमन्॥ 1-181-5(8156)
ब्राह्मणावसथं पुम्यमाससाद महीपतिः।
तत्र नास्नातकः कश्चिन्न चासीदव्रती द्विजः॥ 1-181-6(8157)
अधीयानौ महाभागौ सोऽपश्यत्संशितव्रतौ।
याजोपयाजौ ब्रह्मर्षी शाम्यन्तौ परमेष्ठिनौ॥ 1-181-7(8158)
संहिताध्ययने युक्तौ गोत्रतश्चापि काश्यपौ।
तारणेयौ युक्तरूपौ ब्राह्मणावृषिसत्तमौ॥ 1-181-8(8159)
स तावामन्त्रयामास सर्वकामैरतन्द्रितः।
बुद्ध्वा बलं तयोस्तत्र कनीयांसमुपह्वरे॥ 1-181-9(8160)
प्रपेदे च्छन्दयन्कामैरुपयाजं धृतव्रतम्।
पादशुश्रूषणे युक्तः प्रियवाक्सर्वकामदः॥ 1-181-10(8161)
अर्चयित्वा यथान्यायमुपयाजमुवाच सः।
येन मे कर्मणा ब्रह्मन्पुत्रः स्याद्द्रोणमृत्यवे॥ 1-181-11(8162)
`अर्जुनस्य भवेद्भार्या भवेद्या वरवर्णिनी।'
उपयाज कृते तस्मिन् गवां दाताऽस्मि तेऽर्बुदं॥ 1-181-12(8163)
यद्वा तेऽन्यद्द्विजश्रेष्ठ मनसः सुप्रियं भवेत्।
सर्वं तत्ते प्रदाताऽहं न हि मेऽत्रास्ति संशयः॥ 1-181-13(8164)
इत्युक्तो नाहमित्येवं तमृषिः प्रत्यभाषत।
आराधयिष्यन्द्रुपदः स तं पर्यचरत्पुनः॥ 1-181-14(8165)
ततः संवत्सरस्यान्ते द्रुपदं स द्विजोत्तमः।
उपयाजोऽब्रवीत्काले राजन्मधुरया गिरा॥ 1-181-15(8166)
ज्येष्ठो भ्राता ममागृह्माद्विचरन् गहने वने।
अपरिज्ञातशौचायां भूमौ निपतितं फलम्॥ 1-181-16(8167)
तदपश्यमहं भ्रातुरसाम्प्रतमनुव्रजन्।
विमर्शं संकरादाने नायं कुर्यात्कदाचन॥ 1-181-17(8168)
दृष्ट्वा फलस्य नापश्यद्दोषान्पापानुबन्धकान्।
विविनक्ति न शौचं यः सोऽन्यत्रापि कथं भवेत्॥ 1-181-18(8169)
संहिताध्ययनं कुर्वन्वसन्गुरुकुले च यः।
भैक्षमुत्सृष्टमन्येषां भुङ्क्ते स्म च यदा तदा॥ 1-181-19(8170)
कीर्तयन्गुणमन्नानामघृणी च पुनः पुनः।
तं वै फलार्थिनं मन्ये भ्रातरं तर्कचक्षुषा॥ 1-181-20(8171)
तं वै गच्छस्व नृपते स त्वां संयाजयिष्यति।
जुगुप्समानो नृपतिर्मनसेदं विचिन्तयन्॥ 1-181-21(8172)
उपयाजवचः श्रुत्वा याजस्याश्रममभ्यगात्।
अभिसम्पूज्य पूजार्हमथ याजमुवाच ह॥ 1-181-22(8173)
अयुतानि ददान्यष्टौ गवां याजय मां विभो।
द्रोणवैराभिसन्तप्तं प्रह्लादयितुमर्हसि॥ 1-181-23(8174)
स हि ब्रह्मविदां श्रेष्ठो ब्रह्मास्त्रे चाप्यनुत्तमः।
तस्माद्द्रोणः पराजैष्ट मां वै स सखिविग्रहे॥ 1-181-24(8175)
क्षत्रियो नास्ति तस्यास्यां पृथिव्यां कश्चिदग्रणीः।
कौरवाचायर्मुख्यस्य भारद्वाजस्य धीमतः॥ 1-181-25(8176)
द्रोणस्य शरजालानि प्राणिदेहहराणि च।
षडरत्नि धनुश्चास्य दृश्यते परमं महत्॥ 1-181-26(8177)
स हि ब्राह्मणवेषेण क्षात्रं वेगमशंसयम्।
प्रतिहन्ति महेष्वासो भारद्वाजो महामनाः॥ 1-181-27(8178)
क्षत्रोच्छेदाय विहितो जामदग्न्य इवास्थितः।
तस्य ह्यस्त्रबलं घोरमप्रधृष्यं नरैर्भुवि॥ 1-181-28(8179)
ब्राह्मं सन्धारयंस्तेजो हुताहुतिरिवानलः।
समेत्य स दहत्याजौ क्षात्रधर्मपुरःसरः॥ 1-181-29(8180)
ब्रह्मक्षत्रे च विहिते ब्राह्मं तेजो विशिष्यते।
सोऽहं क्षात्राद्बलाद्धीनो ब्राह्मं तेजः प्रपेदिवान्॥ 1-181-30(8181)
द्रोणाद्विशिष्टमासाद्य भवन्तं ब्रह्मवित्तमम्।
द्रोणान्तकमहं पुत्रं लभेयं युधि दुर्जयम्॥ 1-181-31(8182)
तत्कर्म कुरु मे मे याज वितराम्यर्बुदं गवाम्।
तथेत्युक्त्वा तु तं याजो याज्यार्थमुपकल्पयत्॥ 1-181-32(8183)
गुर्वर्थ इति चाकाममुपयाजमचोदयत्।
याजो द्रोणविनाशाय प्रतिजज्ञे तथा च सः॥ 1-181-33(8184)
ततस्तस्य नरेन्द्रस्य उपयाजो महातपाः।
आचख्यौ कर्म वैतानं तदा पुत्रफलाय वै॥ 1-181-34(8185)
स च पुत्रो महावीर्यो महातेजा महाबलः।
इष्यते यद्विधो राजन्भविता ते तथाविधः॥ 1-181-35(8186)
भारद्वाजस्य हन्तारं सोऽभिसन्धाय भूपतिः।
आजह्वे तत्तथा सर्वं द्रुपदः कर्मसिद्धये॥ 1-181-36(8187)
याजस्तु हवनस्यान्ते देवीमाज्ञापयत्तदा।
प्रेहि मां राज्ञि पृषति मिथुनं त्वामुपस्थितम्॥ 1-181-37(8188)
राज्ञ्युवाच। 1-181-38x(1041)
अवलिप्तं मुखं ब्रह्मन्दिव्यान्गन्धान्बिभर्मि च।
सूतार्थे नोपलब्धाऽस्मि तिष्ठ याज मम प्रिये॥ 1-181-38(8189)
याज उवाच। 1-181-39x(1042)
याजेन श्रपितं हव्यमुपयाजाभिमन्त्रितम्।
कथं कामं न सन्दध्यात्सा त्वं विप्रेहि तिष्ठ वा॥ 1-181-39(8190)
ब्राह्मण उवाच। 1-181-40x(1043)
एवमुक्त्वा तु याजेन हुते हविषि संस्कृते।
उत्तस्थौ पावकात्तस्मात्कुमारो देवसन्निभिः॥ 1-181-40(8191)
ज्वालावर्णो घोररूपः किरीटी वर्म चोत्तमम्।
बिभ्रत्सखङ्गः सशरो धनुष्मान्विनदन्मुहुः॥ 1-181-41(8192)
सोऽध्यारोदद्रथवरं तेन च प्रययौ तदा।
ततः प्रणेदुः पञ्चालाः प्रहृष्टाः साधुसाध्विति॥ 1-181-42(8193)
हर्षाविष्टांस्ततश्चैतान्नेयं सेहे वसुन्धरा।
भयापहो राजपुत्रः पञ्चालानां यशस्करः॥ 1-181-43(8194)
राज्ञः शोकापहो जात एष द्रोणवधाय वै।
इत्युवाच महद्भूतमदृश्यं खेचरं तदा॥ 1-181-44(8195)
कुमारी चापि पाञ्चाली वेदीमध्यात्समुत्थिता।
सुभगा दर्शनीयाङ्गी स्वसितायतलोचना॥ 1-181-45(8196)
श्यामा पद्मपलाशाक्षी नीलकुञ्चितमूर्धजा।
ताम्रतुङ्गनखी सुभ्रूश्चारुपीनपयोधरा॥ 1-181-46(8197)
मानुषं विग्रहं कृत्वा साक्षादमरवर्णिनी।
नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रधावति॥ 1-181-47(8198)
या बिभर्ति परं रूपं यस्या नास्त्युपमा भुवि।
देवदानवयक्षाणामीप्सितां देवरूपिणीम्॥ 1-181-48(8199)
`सदृशी पाण्डुपुत्रस्य अर्जुनस्येति भारत।
ऊचुः प्रहृष्टमनसो राजभक्तिपुरस्कृताः॥' 1-181-49(8200)
तां चापि जातां सुश्रोणीं वागुवाचाशरीरिणी।
सर्वयोषिद्वरा कृष्णा निनीषुः क्षत्रियान्क्षयम्॥ 1-181-50(8201)
सुरकार्यमियं काले करिष्यति सुमध्यमा।
अस्या हेतोः कौरवाणां महदुत्पत्स्यते भयम्॥ 1-181-51(8202)
तच्छ्रुत्वा सर्वपञ्चालाः प्रणेदुः सिंहसङ्घवत्।
न चैतान्हर्षसम्पूर्णानियं सेहे वसुन्धरा॥ 1-181-52(8203)
`पाञ्चालराजस्तां दृष्ट्वा हर्षादश्रूण्यवर्तयत्।
परिष्वज्य च तां कृष्णां स्नुषा पाण्डोरिति ब्रुवन्।
अङ्कमारोप्य पाञ्चालीं राजा हर्षमवाप सः॥' 1-181-53(8204)
तौ दृष्ट्वा पार्षती याजं प्रपेदे वै सुतार्थिनी।
न वै मदन्यां जननीं जानीयातामिमाविति॥ 1-181-54(8205)
तथेत्युवाच तां याजो राज्ञः प्रियचिकीर्षया।
तयोश्च नामनी चक्रुर्द्विजाः सम्पूर्णमानसाः॥ 1-181-55(8206)
धृष्टत्वादत्यमर्षित्वाद्द्युम्नाद्युत्संभवादपि।
धृष्टद्युम्नः कुमारोऽयं द्रुपदस्य भवत्विति॥ 1-181-56(8207)
कृष्णेत्येवाब्रुवकन्कृष्णां कृष्णा।ञभूत्सा हि वर्णतः।
तथा तन्मिथुनं जज्ञे द्रुपदस्य महामखे॥ 1-181-57(8208)
`वैदिकाध्ययने पारं धृष्टद्युम्नो गतः परम्॥' 1-181-58(8209)
धृष्टद्युम्नं तु पाञ्चाल्यमानीय स्वं निवेशनम्।
उपाकरोदस्त्रहेतोर्भारद्वाजः प्रतापवान्॥ 1-181-59(8210)
अमोक्षणीयं दैवं हि भावि मत्वा महामतिः।
तथा तत्कृतवान्द्रोण आत्मकीर्त्यनुरक्षणात्॥ ॥ 1-181-60(8211)
इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वमि एकाशीत्यधिकशततमोऽध्यायः॥ 181 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-181-7 परमे ब्रह्मणि वेदे वा स्थातुं शीलं ययोस्तौ॥ 1-181-8 तारणेयौ कुमारीप्रभवौ सूर्यभक्तौ वा॥ 1-181-17 संकरादाने दोषयुक्तवस्त्वादाने॥ 1-181-19 उत्सृष्टं उच्छिष्टम्॥ 1-181-20 अघृणी लज्जाहीनः॥ 1-181-21 इदं याजचरितं जुगुप्समानो निन्दन्। विचिन्तयन् स्वकार्यं चेति शेषः॥ 1-181-23 अष्टावयुतानि ददानि। रिक्तपाणिर्न पश्येत राजानं देवतां गुरुमिति स्मृतेरुपायनमात्रमेतत् न दक्षिणा अर्वुदप्रतिज्ञानात्॥ 1-181-24 पराजैष्ट पराजितवान्॥ 1-181-25 तस्य तस्मात्। अग्रणीः श्रेष्ठः॥ 1-181-56 धृष्टत्वात् प्रगल्भत्वात्। अत्यन्तममर्षः शत्रत्कर्षासहिष्णुत्वं तद्वत्त्वात्। द्युम्नं वित्तं तच्च राज्ञां बलमेव कवचकुण्डलादिकं वा सहोत्पन्नं तदादिर्यस्य शस्त्रास्त्रशौर्योत्साहादेस्तद्द्युम्नादि तस्योत्संभवादुत्कर्षेणोत्पत्तेश्च॥ एकाशीत्यधिकशततमोऽध्यायः॥ 181 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|